कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।
कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नै॑ः ॥
कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ ।
कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥
हे इन्द्र ते तव ईषन्मध्यमोत्तमानां सोमजन्यानां मदानां मध्ये कोमदः रत्न्योरमयिता प्रीतिकरोभूत् भवति त्वत्प्रीतिकरमदयोग्यसोमदानाभिप्रायेणायं प्रश्नः । उग्रःओजस्वी त्वं दुरः यज्ञगृहद्वाराणि गिरः स्तुतिलक्षणावाचश्च अभिविधाव अभ्यागच्छ । किञ्च कत् कदा वाहः इन्द्रं प्रत्युह्यतइति वाहः सोमउच्यते एवं भूतः अर्वाक् त्वत्प्रसादात्फलदानायास्मदभिमुखो भविष्यतीतिशॆषः । अपिच कदा मनीषा सर्वार्थदर्शनाप्रज्ञा सर्वगुणग्राहिणीस्तुतिर्वा मा मां त्वत्प्रसादादुपगमिष्यतीतिशेषः । कदा हे इन्द्र त्वा त्वां आइत्युपसर्गश्रुतेर्योग्यपदाध्याहारः आराध्य वयं अन्नैः सह राधोधनं उपमं मत्समीपं शक्यां शकिरत्र गत्यर्थोन्तर्भावितण्यर्थः संगमयेयं ॥ ३ ॥