दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः ।
अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ॥
दि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः ।
अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥
दिवःपृथिव्योः द्यावापृथिव्योः कार्येण संबंधि अवोरक्षणं वयमावृणीमहे । किंच मातॄन् लोकस्य निर्मातॄन् सिंधून् शर्यणावतः सरसः संबंधिनः पर्वतान् शिलोच्चयांश्च तथा सूर्य मुषसं च अनागास्त्वं कर्मवैगुण्यजनितपापराहित्यमीमहे वयं याचामहे । किंच अद्यास्मि- न्नहनि नोस्मकं सुवानोभिषूयमाणः सोमोभद्रं कल्याणं कृणोतु करोतु ॥ २ ॥