स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः ।
ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः ।
ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
जीवाजीवेतोजीवपुत्राज्वनवत्पुत्राश्चानागसोपराधवर्जिताश्च वयं धानाका लुशाः सनि- त्वभिः संभक्तृभिः पुत्रपौत्रादिभिः सह सुसनिता शोभनेन भजनेन तद्देवजातं सनेम स्तुत्या हविः प्रदानेन च संभजेमहि । किंच ब्रह्मद्विषोब्राह्मणानामस्माकं द्वेष्टारोविष्वक् नानागच्छ देनोस्मदीयं पापंभरेरत आत्मनि धारयंतु पोषयंतु । सिद्धमन्यत् ॥ ९ ॥