म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् ।
यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् ।
यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥
अद्यास्मिन्नहनि महतां श्रेष्ठानां बृहतां वृद्धानां अनर्वणां अप्रतिगतानांदेवानामिंद्रादी- नां संबंधि महदधिकं अवोरक्षणमवृणीमहे प्रार्थयामहे । किंच वयं यथा वसु धनं वीर- जातं अपत्यजातं च नशामहै प्राप्नुयाम तथा ते देवाः कुर्वंत्वितिशॆषः ॥ ११ ॥