यु॒वं विप्र॑स्य जर॒णामु॑पे॒युष॒ः पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ ।
यु॒वं वन्द॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥
यु॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽई॒युषः॑ । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णु॒त॒म् । युव॑त् । वयः॑ ।
यु॒वम् । वन्द॑नम् । ऋ॒श्य॒ऽदात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला॑म् । एत॑वे । कृ॒थः॒ ॥
हे अश्विनौ युवं युवां विप्रस्य मेधाविनः जरणां जरां उपेयुषः उपगतवतः कलेः क- लिनामधेयस्य ऋषेः वयः पुनरपि युवत् युवत्वयुक्तं अकृणुतं अकुरुतम् । तथाचनिगमांतरं- कलिंयाभिर्वित्तजानिंदुवस्यथइति । किंच युवं युवां वंदनं जायावियोगसंतापेन कूपपतितं वंदनाख्यमृषिमृश्यदात् कूपादुदूपथुः उदैरयतम् । तथाचनिगमांतरं—उद्वंदनमैरयतंस्वर्दृशइति । किंच युवं युवां विश्पलां खेलस्य राज्ञः सेनायां योध्रीविश्पलानाम काचित् स्त्री तां सं- ग्रामे शत्रुभिः छिन्नजंघांसद्यस्तदैव एतवे गमनाय कृथः अकुरुतम् । तथाचनिगमांतरं—चरि- त्रंहिवैरिवाच्छेदिपर्णमाजाखेलस्यपरितक्म्यायाम् । सद्योजंघामायसींविश्पलायैधनेहितेसर्तवेप्र- त्यधत्तमिति ॥ ८ ॥