अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत ।
अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥
अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ ।
अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥
अत्र यज्ञजिगमिषवो देवाः परस्परं ब्रुवते। हे सोम्याः सोमार्हा देवाः यूयमक्षानहोऽक्षेषु नह्यान् बन्धनीयानश्वान्नह्यतन। नह्यत। बध्नीत रथे। उतापि च रशना अश्वबन्धनप्रग्रहानिष्कृणुध्वम्। इश्कुरुत। सम्यक् संस्कुरुत। नकारलोपश्छान्दसः। उतापि चापिंशत। पिश अवयवे। अश्वानलङ्कुरुतेत्यर्थः। अष्टावन्धुरम्। वन्धुरं सारथिनिवासस्थानम्। अष्टसङ्ख्याकवन्धुरोपेतं रथं सूर्यसम्बन्धिनमभितः सर्वतो वहत। सूर्यरथेन साकं युष्मदीयान्रथान्यज्ञं प्रतिगमयतेत्यर्थः। येन देवासो देवाः प्रियमस्माननयन् अभिगमयन्ति तं रथमभितो वहतेति सम्बन्धः। यद्वा। तं यज्ञं प्रति वहतेति योज्यम्॥७॥