यदु॑ष॒ औच्छ॑ः प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् ।
यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥
यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् ।
यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
अत्र प्रसङ्गात्सूर्यात्मकेन्द्रसंबन्धिन्युषाः स्तूयते। हे उष उषोदेवते विभानां विभासकानां ग्रहनक्षत्रादीनां प्रथमा प्रथमभुता सत्यौच्छः। विभासनमकरोः। अग्रे ह्युषसः प्रादुर्भवन्ति पश्चादन्यानि तेजांसि। येन च तेजसा पुष्टस्य पोषयुक्तस्यापि पदार्थस्य पुष्टमतिशयेन पोषयुक्तमादित्यमजनयः। उदपादयः। यत् यद्वा ते तव जामित्वं बान्धवमवरमवाङ्मुखम्। तदिदं महत्यास्तव महदतिप्रवृद्धमेकमसाधारणमेकमेव वासुरत्वं प्रकृष्टबलवत्त्वम्। तवबलेन कृतमित्यर्थः॥४॥