वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।
दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
वि॒ऽधुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ ।
दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥
महाव्रते निष्केवले विधुं दद्राणमित्येषा। सुत्रितं च। आ याह्यर्वाङुपवन्धुरेष्ठा विधुं दद्रानमिति।
अनया कलात्मक इन्द्रः स्तूयते। विधुं विधातारम् सर्वस्य युद्धादेः कर्तारम् । विपूर्वो दधातिः करोत्यर्थः। तथा समने अननमनः प्राणनम्। सम्यगननोपेते सङ्ग्रामे बहूनां शत्रूणाम् दद्राणं द्रावकं ईदृक्सामर्थ्योपेतं युवानं सन्तं पुरुषं पलितो जरा जगार। निगिरतीन्द्राज्ञया। एवमुक्तलक्षनं वक्ष्यमाणलक्षणं च देवस्य कालात्मकस्येन्द्रस्य महित्वा महत्त्वेनोपेतं काव्यं सामर्थ्यं पश्य। पश्यत हे जनाः। तथा जरसा प्राप्तोऽयं ममार। म्रियते। स ह्यः परेद्युः समान। सम्यक्चेष्टरे। पुनर्जन्मान्तरे प्रादुर्भवतित्यर्थः। तदेवं चत्वारि नामानि शरीरान्युक्तानि॥५॥