साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।
ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥
साम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि ।
ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥
सामन्नु सामिन् गीयमाने सति। नु चार्थे। राये जीवायूरूपधनार्थं निधिमन्निधानवदन्नं हविष्च करामहे। कुर्मः। अत्र न्विति चार्थे। निरृत्यै स्तुतिं हविश्चोभयं कुर्म इत्यर्थः। तदेवाह। सु सुष्ठु पुरुध पुरुधा बहुप्रकारं श्रवांस्यन्नानि हवींषि करामहे। ता तानि हवींषि नोऽस्माकं सम्बन्धीनि विश्वानि सर्वाणि जरिता जीर्णा स्तुता वा। जरा स्तुतिः। नि. १०-८। ममत्तु। स्वदताम् । आस्वाद्य च निरृतिः परापतरमत्यन्तं दूरदेशं जिहीताम् । गच्छताम्॥२॥