आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
आ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् ।
अग॑न्म । बिभ्र॑तः । नमः॑ ॥
आ जनमिति द्वादशर्चमष्टादशं सूक्तम्। गौपायना बन्ध्वादय ऋषयः। षष्ठ्यास्त्वगस्त्यस्य स्वसैषां मातर्षिका। आदितः पञ्च गायत्र्यः। अष्टमीनवम्यौ पङ्क्ती शिष्टा अनुष्टुभः। आदितश्चतसृणामसमातिनाम्नो राज्ञः स्तूयमानत्वात् स एव देवता। पञ्चम्या इन्द्रः। षष्ट्या अप्यसमातिः। ततः पञ्चानां सुबन्धोर्जीविताह्वानरूपोऽर्थो देवता। अयं मे हस्त इत्यस्या लब्धसंज्ञस्य सुबन्धोः स्पर्शनहेतुभूतो देवता। तथा चानुक्रान्तम्। आ जनमिति द्वादशर्चमानुष्टुभं चतसृभिरसमातिमस्तुवन्पञ्चम्येन्द्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबन्धोर्जीवमाह्वयंस्तमन्त्यया लब्धसंज्ञमस्पृशन् पञ्चम्याद्यागायत्र्योऽष्टम्याद्ये पङ्क्ती इति॥
इदमादिभिस्तिसृभी राजानं स्तुवन्ति। वयं बन्ध्वादयो जनं जनपदमसुनीतिस्वभूतमागन्म। अभिगताः। गमेर्लुङि मन्त्रे घसेति च्लेर्लुक्। म्वोश्चेति मकारस्य नकारः। कीदृशं जनम् । त्वेषसंदृशं दीप्तदर्शनं माहीनानां महतामुपस्तुतमुपगतस्तुतिम् । तादौ चेति गतेः प्रकृतिस्वरः। कीदृसा वयम् । नमो नमस्कारं बिभ्रतो धारयन्तः। कुर्वन्त इत्यर्थः। यद्वा। जनमसमातिमित्यर्थः। शिष्टं समानम् । नमो बिभ्रत इति राजकृते नमस्कारं धारयन्त इत्यर्थः॥१॥