प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।
पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् ।
पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥
यथा स्वांशेन भगवान्रुद्रः प्रजापतिर्वास्तोष्पतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति। यस्य प्रजापतेरिष्णदेषणवद्वीरकर्मम्। लङ्गव्यत्ययः। वीरकर्म। रेत इत्यर्थः। येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः प्रथिष्ट प्रथितमासीत् तद्रेतोऽनुष्टितं प्रजापतिनापत्यार्थं निषिक्तम् नर्यो नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रोऽपौहत्। अपोहति। तदेवाह। पुनन्तद्रेत आ वृहति। सर्वत उत्खिदति। उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन्। कीदृशं रेतः। यद्रेतः कनायाः कान्ताया दुहितुः स्वपुत्र्याः। तस्यामित्यर्थः। तत्र प्रजापतिनानुभृतमाः आसीत्। आस्तेः सिपि। कीदृशो रुद्रः। अनर्वान्यस्मिन्नप्रत्यृतः। प्रजापतिर्वै स्वां दुहितरमभ्यधायद्दिवमित्यन्य आहुरुषसमित्यन्ये। ऐ. ब्रा. ३-३३। इति ब्राह्मणम्॥५॥