तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥
तेषा॑म् । हि । म॒ह्ना । म॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् ।
ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥
मह्ना स्वमहत्त्वेन महतामनर्वणामन्यस्मिन्नप्रत्यृतानाम् शत्रुभिरनभिगन्तव्यानामृतावृधां सत्यभुतेन यज्ञेन व्रुद्धानाम् तेषामग्न्यादीनां देवानामेवार्तज्ञा यज्ञस्य ज्ञाताहं स्तोमानियर्मि। प्रेरयामि। ऋ गतिप्रापनयोः। औहोत्यादिकः। चित्रराधसाश्चायनीयधनोपेता यद्वा पश्वादिलक्शणबहुधाना ये देवा अप्सवम्। अप्स इति रूपनाम। रूपवन्तमर्णवम्। अर्णसं सलोपश्च। का. ५-२-१०९-३। इति मत्वर्थियो वप्रत्ययः। उदकवन्तं मेघं वर्षन्ति ते सुमित्र्याः शोभनसखिकर्माणस्ते देवा नोऽस्मभ्यं महये जनेशु मध्ये पूजार्थं धनं रासन्ताम्। प्रयच्छन्तु। रासृ दाने॥३॥