वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥
वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् ।
बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥
स बृहस्पतिः शयथोपशयेन स्थित्वापाचीं पराङ्मुखीमीमिमामसुरपुरीं विभिद्य विदार्योदधेर्वलाद्मेघरूपादसुरात्साकं सह युगपत्त् त्रीण्युषसं सूर्यं गामेतानि त्रीणि निरकृन्तत्। निर्गतमकार्षीत्। तमसावृत्षु स्थानेशूषः कालतः पश्चाद्भाविनं सूर्यं च जनयित्वा पशून्निरगमयदित्यर्थः। सोऽयमर्कमर्चन्यं मन्त्रं सूर्यं विवेद प्रज्ञापयति। कथमिव। यथा स्तनयन् शब्दं कुर्वन् द्यौरिव स्थितः॥५॥