मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ५

संहिता

उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥

पदपाठः

उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आ॒हुः॒ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु ।
अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । अ॒पु॒ष्पाम् ॥

सायणभाष्यम्

त्वमुतैकमपि सख्ये विदुषां संसदि। या सत्कथा सा सखिकर्मत्वात्सख्यमित्युच्यते। सा च वाचा क्रियते। अतो वाक्संबन्धाद्वाक्सख्ये स्थिरपीतं मधु यस्य हृदये स्थितं भवति। यद्वा। स्थिरपीतं स्थिरप्राप्तिमाहुः । यद्वा। तस्मिञ्जातार्थमाहुः। लोके यता ज्ञातार्थं पुरुषं पीतार्थमिति वदन्ति। किञ्चैनं विज्ञाताअर्थं पुरुषं वाजिनेशु। वागिनेश्वा येषां ते वाजिना आर्था वाच आयुत्ताः खलु। वाग्ज्ञेयेष्वर्थेषु नापि हिन्वन्ति। अपिशब्दोऽन्वर्थे। केचिदपि नानुगच्छन्ति। अयमेवातिशयेन विद्वानित्यर्थः। यद्वा। वाजिनेशु सारभूतेशु निरूपणीयेष्वर्थेष्वेनं न हिन्वन्ति। न वहिः कुर्वन्ति। एनं पुरस्कृत्यैव सर्वं वेदार्थं विचारयन्तीत्यर्थः। इत्यर्थज्ञः प्रशस्तः। अनन्तरमुत्तरार्धेन केवलपाठको निन्द्यते। एषोऽविज्ञातार्थः पुरुषोऽधेन्वा धेनुत्वविवर्जितया कामानामदोग्ध्र्या वेवमनुष्यस्थानेषु वाप्रतिरूपाअ मयया चरति। किं कुर्वन्। अफलामपुष्पाम् । वाचोऽर्थः पुष्पफलम् । अर्थवर्जिताम् । यद्वा। वाचोऽर्थो याज्ञदैवते। यज्ञे भवं ज्ञानं दैवतम् । तद्वर्जितं कर्मादिविषयज्ञानवर्जितां वाचं शुश्रुवाञ्श्रुतवान्। केवलं पाठमात्रेणैव श्रुतवान् स चरति। यथा वन्ध्या पीना गौः किं द्रोणमात्रं क्षीरं दोग्धीति मायामुत्पादयन्ती चरति यथा वन्ध्यो वृक्षोऽकाले पल्लवादियुक्तः सन्पुष्यति फलतीति भ्रान्तिमुत्पादयंस्तिष्थति तथा पाठं प्रब्युवाणश्चरतीत्यर्थः। अप्येकं वाक्सख्ये स्थिरपीतमित्यादि निरुक्तमनुसन्धेयम्। नि . १-२०॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३