यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ॥
यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति ।
तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥
यो यजमानोऽस्मा अग्नये तृषु क्षिप्रमन्नमादधाति करोत्याज्यैर्घृतैः क्षरद्रूपैर्दीप्तैर्वा सोमरसैर्जुहोति पुष्यति पुष्णाति चैनं काष्ठैः तस्मै। तमित्यर्थः। तं सहस्रं सहस्रसङ्ख्याकैरक्षभिरक्षिस्थानीयाभिरपरिमिताभिर्ज्वालाभिर्विचक्षे। विचष्टे। विपश्यति। अथ प्रत्यक्षकृतः। हे अग्ने त्वं विश्वतः सर्वतः प्रत्यङ्गसि। प्रत्यगञ्चनो भवसि। अस्मदानुकूल्येन प्रवर्तमानो भवसि॥५॥