विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥
विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥
तस्मिन्नेव वैश्वकर्मणपशौ वपापुरोडाशयोर्विश्वकर्मन्हविषेति क्रमेण द्वे अनुवाक्ये। सुत्रितं च। विश्वकर्मन्हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः। आ. ३-८। इति। साकमेधेषु वैश्वकर्मणस्य विश्वकर्मन्हविषेत्येषैवानुवाक्या। सुत्रं तु पूर्वमुदाहृतम्॥
हे विश्वकर्मन्विश्वविषयकर्मन्नेतन्नामक परमेश्वर हविषा हविर्भूतेन मया विश्वकर्मणा मया दत्तेन वा हविषा ववृधानो वर्धमानः। विश्वकर्मा सर्वाणि भूतानि जुहवाञ्चकार स आत्मानमप्यन्ततो जुहवाञ्चकारेति हि निरुक्तम् पूर्वमुदाहृतम्। स्वयमेव पृथिवीमुतापि च द्यां दिवं च स्वसृष्टे द्यावापृथिव्यौ स्वयं प्रवृद्धः सन्यजस्व। पूजय। अन्ये मत्तोऽन्ये जनासो जना अयष्टारोऽस्मद्यागविरोधिनो वा मुह्यन्तु मुग्धा भवन्त्वभितः सर्वतः। अथ परोक्षकृतः। इहास्मिन्यगेऽस्माकं मघवास्मत्प्रत्तेन हविर्लक्षणेन धनेन धनवान् स सूरिः स्वर्गादिफलस्य प्रेरकोऽस्तु। भवतु। अत्र विध्वकर्मन्हविषा वर्धमान इत्यादि निरुक्तमनुसन्धेयम्॥ १०-२७॥६॥