त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।
वि॒श्वच॑र्षणि॒ः सहु॑रि॒ः सहा॑वान॒स्मास्वोज॒ः पृत॑नासु धेहि ॥
त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः ।
वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥
हे मन्यो त्वमभीहि। अभिगच्छास्मद्यज्ञम्। कीदृशस्त्वम्। तवसो बलवतोऽपि तवीयानत्यन्तं बलवान्। स त्वं तपसास्मत्पित्रा युजा सहायेन शत्रून्वि जहि। किञ्चामित्रहामित्राणां हन्ता। अमित्रोऽस्निग्धः। तथा वृत्रहावरकाणां शत्रूणां हन्ता तथा दस्युहा च। दस्युरुपक्षयकारी शत्रुः। तादृश मन्युदेव त्वं विश्वा सर्वाणि वसूनि धनानि नोऽस्मभ्यमा भर। आहर॥४॥