वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
वि॒जे॒ष॒ऽकृत् । इन्द्रः॑ऽइव । अ॒न॒व॒ऽब्र॒वः । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भ॒व॒ । इ॒ह ।
प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽब॒भूथ॑ ॥
हे मन्यो इन्द्र इव विजेषकृद्विजयकर्ता तथानवब्रवोऽनिन्दितवचनः। अनवब्रवोऽनवक्षिप्तवचन इति यास्कः। नि. ६-२६। ईदृशस्त्वमस्माकमधिपा अधिकं पाता रक्षिता भवेहास्मिन्यज्ञे। हे सहुरे शत्रूणाम् सहनशील ते प्रियं नाम स्तोत्रं गृणीमसि। गृणिमः। स्तुमः। यतो नाम्नः स्तोत्रात्त्वमाबभूथ आभवसि प्रवृद्धो भवसि तमुत्सं बलस्योद्गमयितारं विद्म। जानीमः॥५॥