मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥
मनः॑ । अ॒स्याः॒ । अनः॑ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः ।
शु॒क्रौ । अ॒न॒ड्वाहौ॑ । आ॒स्ता॒म् । यत् । अया॑त् । सू॒र्या । गृ॒हम् ॥
अस्याः सूर्यायाः पत्युर्गृहं गच्छन्त्या अनो रथो मन आसीत्। या पतिगृहं त्वया गच्छामीति मतिरस्ति सान आसित्। उतापि च तस्या अनसो द्यौर्द्युलोकश्छदिरुपर्यपिधानमासीत्। शुक्रौ दीप्तौ सूर्याचन्द्रमसावनड्वाहौ रथस्य वोढारावास्ताम्। अभवताम्। यद्यदा सूर्या गृहं सोममयात् आगात्॥१०॥