शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥
शुची॒ इति॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः ।
अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥
यत्या गच्छन्त्यास्ते तवानसश्चक्ते चङ्क्रमणशीले रथाङ्गे शुची श्रोत्रे आस्ताम्। व्यानस्तव व्यानो वायुरक्षः। उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति। सोऽक्षो व्यानोऽभुत्। मनस्मयं मनोमयमनः शकटं सूर्या पतिं सोमं प्रतिप्रयती प्रकर्षॆण गच्छन्त्यारोहत्। आरूढवती। पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोभूदित्यर्थः॥१२॥