नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायु॑ः ॥
नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥
अतिमूर्तिनाम्न्येकाहे शुक्लपक्षे चान्द्रमसीष्टिः। तत्र नवोनव इत्येषा याज्या। सुत्रितं च। नवो नवो भवति जायमानस्तरणिर्विश्वदर्शत। आ. ९-८। इति॥
अयं चन्द्रमा जायमानः प्रतिदिनं जायमान एकैककलाभिक्येनोत्पद्यमानः सन्नवोनवो भवति। प्रतिदिनं नूतन एव भवति। प्रतिदिनं नूतन एव भवति। एतत्पुर्वपक्षाद्यभिप्रायम् । तथाह्नां दिवसानां केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाह्रासवृद्ध्यधीनत्वात्। तादृशश्चन्द्रमा उषसां प्रभातीनामग्रमेति। एतत्कृष्णपक्षान्ताभिप्रायम्। केचनैतं पादमादित्यदैवत्यमाहुः। तन्मिन्पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे। देवेभ्यो भागं हविर्भागं वि दधाति। करोति। उभयपक्षान्ते। किं कुर्वन्। आयन् प्रतिदिनं ह्रासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम् । चन्द्रमा उक्तलक्षणो देवो दीर्घमायुस्तिरते। वर्धयति॥१९॥