प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥
प॒श्चात् । पु॒रस्ता॑त् । अ॒ध॒रात् । उद॑क्तात् । क॒विः । काव्ये॑न । परि॑ । पा॒हि॒ । रा॒ज॒न् ।
सखे॑ । सखा॑यम् । अ॒जरः॑ । ज॒रि॒म्णे । अग्ने॑ । मर्ता॑न् । अम॑र्त्यः । त्वम् । नः॒ ॥
हे राजन्दीप्ताग्ने कविः क्रान्तदर्शनस्त्वं काव्येन कविकर्मणा पश्चात् पश्चिमतः पुरस्तात्पूर्वतोऽधराद्दक्षिणतश्चोदक्तादुत्तरतश्चास्मान्परि पाहि। परितो रक्ष। किञ्च हे सखे मित्रभूताग्ने अजरो जरारहितस्त्वं मां सखायं जरिम्णे जरायै कुरु। त्वत्प्रसादादहं चिरं जीवामीत्यर्थः। एतदेव दर्शयति। हे अग्ने अमर्त्यो मरणधर्मरहितस्त्वं मर्तान्मरणधर्मवतो नोऽस्माञ्जरिम्णे जरायै कुर्विति शेषः॥२१॥