यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।
व॒स॒न्तः । अ॒स्य॒ । आ॒सी॒त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । श॒रत् । ह॒विः ॥
यद्यदा पूर्वोक्तद्रमेणैव शरीरेषूत्पन्नेषु सत्सु देवा उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तरासम्भवात्पुरुषस्वरूपेण मनसा हविष्ट्वेन सङ्कल्प्य पुरुषेण पुरुपाख्येन हविषा मानसं यज्ञमतन्वत अन्वतिष्थन्। तदानीमस्य यज्ञस्य वसन्तो वसन्तर्तुरेवाज्यमासीत्। अभूत्। तमेवाज्यत्वेन सङ्कल्पितवन्त इत्यर्थः। एवं ग्रीष्म इध्म आसीत्। तमेवेध्मत्वेन सङ्कल्पितवन्त इत्यर्थः। तथा शरद्धविरासीत्। तामेव पुरॊडाशादिहविष्ट्वेन सङ्कल्पितवन्त इत्यर्थः। पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन सङ्कल्पः। अनन्तरं वसन्तादीनामाज्यादिविशेशरूपत्वे सङ्कल्प इति द्रष्टव्यम्॥६॥