स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
येभि॑ः शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥
स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ ।
येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥
एवयावभिरश्वैरागच्छद्भिर्येभिर्यैमरुद्भिः सह स्ववाञ्जातिमान् स्वयशा स्वभूतकीर्तिः शिवः सुखकरः परमेश्वरो दिवो व्युलोकाद्यजमानान्सिषक्ति सेवते हे ऋत्विजः यूयमद्यास्मिन्यागे निकामभिर्नियताभिलाषैस्तैर्मरुद्भिः सहिताय क्षयद्वीराय क्षितशत्रवे शिक्वसे शरणे शक्ताय रुद्राय नमसान्नेन नमस्कारेण वा सह सोत्मं स्तोत्रं दिदिष्टन। दिशत। सृजत। गमयतेत्यर्थः॥९॥