सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्त॑ः ।
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥
सु॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म् । अ॒क्र॒त॒ । आ । क्री॒ळयः॑ । न । मा॒तर॑म् । तु॒दन्तः॑ ।
वि । सु । मु॒ञ्च॒ । सु॒सु॒ऽवुषः॑ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र॑यः । चाय॑मानाः ॥
जायमानाः पूज्यमाना आद्रय आदरणीया ग्रावाणोऽध्वरेऽधि यज्ञे सुते सोमेऽभिषुते मातरं तुदन्तो हस्तेन ताडयन्त आ क्रिळयो नाक्रीडकाः कुमाराः शब्दं यथा कुर्वन्ति तथा वाचं शब्दमक्रत। क्रुण्वन्ति। सुषुवुशः सोममभिषुतवतो ग्राव्णो मनीषां स्तुतिं वि मुञ्च। विशेषेण मुञ्च। किञ्चाद्रयो वि वर्तन्ताम्। अभिषवशब्दं विमुञ्चन्तु॥१५॥
वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये
अष्टमाष्टके चतुर्थोऽध्यायः समाप्तः॥