सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।
अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् ।
अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑न् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥
इदमुत्तरं चोर्वशीवाक्यम्। आद्येन पुरात्मना कृतमुषसे निवेदयति। हे उषः सेयमुर्वशी वसु वासकं वयोऽन्नं श्वशुराय भर्तुः पुरूरवसः पित्रे दधती प्रयच्छन्ती तत्र गृहे स्थिता यदि पतिं वष्टि कामयते तदान्तिगृहात्। स्वभर्तृभोगगृहान्तिके यच्छ्वशुरस्य भोजनगृहं तदन्तिगृहम्। तस्माद्गृहात्सोर्वश्यस्तं पतिग्रुहम् ननक्षे। व्याप्नोति। यस्मिन्गृहे चानक् कामयत उर्वशी। सा चोर्वशी दिवा नक्तमहनि रात्रौ च वैतसेन। शेपो वैतस इति पुंस्प्रजननस्येति निरुक्तम्। ३-२१। पुंस्प्रजननेन श्नथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोक्षेन निर्दिदेश॥४॥