यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।
ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः ।
ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥
हे ओषधीरोषधयः यस्य रुग्णस्याङ्गमङ्गं यद्यदङ्गं परुःपरुर्यद्यत्पर्व प्रसर्पथ प्रकर्षॆणाश्रयथ ततोऽङ्गात्पर्वणश्च यक्ष्मम् व्याधिं वि बाधध्वे। उग्रं उद्गूर्णबलो मध्यमशीर्मध्यमस्थाने वर्तमानो राजा यथोपद्रवकारिणः समनन्तरं शत्रून्पदेपदे विबाधते तद्वत्॥१२॥