मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ५

संहिता

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥

पदपाठः

सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।
व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥

सायणभाष्यम्

स इन्द्रो रुद्रेभी रुद्रपुत्रैर्मरुद्भिः सहित आगात्। आगच्छतु। कीदृशः। अशस्तवारः स्तोतृभिरप्रार्थितधनः। स्वयमेव प्रदातेत्यर्थः। तथर्भ्वा महान् गयं हित्वी हित्वा स्वस्थानं परित्यज्यागात्। आगच्छतु। तत्र सम्बन्धः। आरे अवद्यो दूरेगतगर्घ्यः। किञ्च वम्रस्यैतन्नामकस्यर्षेर्मम मिथुना मिथुनौ माता पितरौ विपन्री विगतज्वरौ मन्ये। अवगच्छामि। अयं वम्रोऽन्नं शत्रुसम्बन्ध्यभीत्याभिप्राप्य मुषायन्मुश्णन्नरोदयत्। रोदयति। छन्दसि शायजपीत्यहावपि मुशेः श्नः शायजादेशः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४