स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥
सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् ।
अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥
स इन्द्रो व्राधतः। महन्नामैतत्। महतोऽपि शत्रूञ्शवसानेभिर्बलमाचरद्भिरायुधैरस्य। अस्यतु। असु क्षेपने। व्यत्ययेन मध्यमः। कुत्सायैतन्नामकाय कृपणे स्तोत्रे। कृपतिः स्तुतिकर्मा। शुश्णं शोषकमेतन्नामकमसुरं परादात्। पराभुय खण्डितवान्। कुत्साय शुष्णमशुषं नि बर्हीः। ऋ. ४-१६-१२। इति मन्त्रान्तरम्। किञ्चायमिन्द्रः कविमुशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात्। शस्यमानं स्तुवन्तमनयत्। वशं प्रापयत्तस्य विरोधिनम्। यद्वा। कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत्। यः कविरस्येन्द्रस्याक्तं रूपं सनिता सम्भक्ता भवति। न लोकाव्ययेति षष्ठीप्रतिषेधः। उतापि च नृणां वृष्त्यादिनेतृणामिन्द्रानुचराणां मरुतां यः कविः सनिता। तमनयदिति॥९॥