ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ऊर्ज॑म् । गा॒वः॒ । यव॑से । पीवः॑ । अ॒त्त॒न॒ । ऋ॒तस्य॑ । याः । सद॑ने । कोशे॑ । अ॒ङ्ग्ध्वे ।
त॒नूः । ए॒व । त॒न्वः॑ । अ॒स्तु॒ । भे॒ष॒जम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥
हे गाव आशिरार्थाः यूयं युवसे त्रुणवति देशे पीवः प्रवृद्धमूर्जं रसमत्तन। अत् या ऋतस्य यज्ञस्य सदने ग्रुहे कोशे गोष्ठे दोहनस्थानेङ् ध्वे व्ब्यञ्जयथ ता अत्तन। तनूरेव। जन्ये जनकशब्दः। तनूरेव क्षीरमेव तन्वः सोमरसस्य भेशजमस्तु। यद्वा। पृथगेव वाक्यम्। अस्माकं तन्वो भेषजमस्तु। किञ्च तनूरेव पशुशरीरमेव। पशुना यागे सति स्वर्गस्य सम्पादयितुं शक्यत्वात्॥१०॥