इ॒मा गावः॑ सरमे॒ या ऐच्छ॒ः परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती ।
कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥
इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती ।
कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥
क्रुद्धाः पणयः प्रत्यूचुः। हे सुभगे शोभनसौभाग्यवति हे सरमे दिवो द्युलोकस्यान्तान्पर्यन्तान्परि पतन्ती कुत्र गावस्तिष्ठन्तीति परितो गच्छन्ती त्वमिमाः परिदृश्यमाना या गावः। सुब्व्यत्ययः। गा ऐच्छः कामयसे ता एना गास्ते त्वदीयः कोऽयुध्व्य युद्ध्वाव सृजात्। अस्मात्पर्वतादवसृजेत्। विनर्गमयेत्। सृजेर्लेटि रूपम्। अयुध्वी युधेः क्त्वाप्रत्यये स्नात्व्यादयश्चेति नोपातितः। नञ्समासत्वाल्ल्यबादेशाभावः। नञः प्रकृतिस्वरत्वम् । उतापि चास्माकं तिग्मा तीक्ष्णान्यायुधायुधानि सन्ति। तस्मादस्माभिर्युद्धमकृत्वा को नाम गा आहरति॥५॥