अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्व॑ः सन्तु पा॒पीः ।
अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥
अ॒से॒न्या । वः॒ । प॒ण॒यः॒ । वचां॑सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः ।
अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥
सा तान्निराह। हे पणयः वो युष्माकं वचांसि पुर्वोक्तानि वचनान्यसेन्यासेन्यानि। सेनार्हानि न भवन्ति। सेनाशब्दात्तदर्हतीत्यर्थे छन्दसि चेति यत्प्रत्ययः। नञा समासः। ययतोश्चातदर्थे। पा.६-२-१५६। इत्युत्तरपदान्तोदात्तत्वम् । तथा तन्वो युश्मदीयानि शरीराण्यनिषव्या इष्वर्हाणि न सन्तुपराक्रमराहित्येन । पूर्ववत्प्रत्ययः। ओर्गुणः। पा. ६-४-१४६। इति गुणः। स्वरश्च तादृक्। यतः पापीः पापयुक्तानि खलु। छन्दसीवनिपावितीप्रत्ययः। जसः शः। किञ्च वो युश्मदीयः पन्था मार्ग एतवै गन्तुमधृष्टोऽसमर्थोऽस्तु। इण् गतावित्यस्य तुमर्थे तवैप्रत्ययः। तवै चान्तश्च युगपत्। पा. ६-२-५१। इति धातोः प्रत्ययस्य च युगपदुदात्तत्वम्। तत्र हेतुमाह। वो युश्मदीयानुभयोभयविधान्पूर्वोक्तांस्तन्वो देहान्बृहस्पतिरिन्द्रप्रेरितो न मृळात्। न सुखयतु। किन्तु बाधेत। मृअ सुखने। लेट्यडागमः॥६॥