एह ग॑म॒न्नृष॑य॒ः सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः ।
त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥                
                    आ । इ॒ह । ग॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्यः॑ । अङ्गि॑रसः । नव॑ऽग्वाः ।
ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वचः॑ । प॒णयः॑ । वम॑न् । इत् ॥                
सरमा पुनः प्रत्युवच। हे पनयः सोमशिताः सोमेन तीक्ष्णीकृताः सोमपानेन मत्ताः। शिञ् निशाने। कर्मणि क्तप्रत्ययः। तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम्। तादृशा नवग्वा नवगतयह्। यद्वा। अङ्गिरसां सत्त्रमासीनानां मध्ये केचन नवसु माःस्वध्यतिष्थन् ते नवग्वाः। अनेन दशग्वा अप्युपलक्श्यन्ते। उभयविधास्तेङ्गिरस ऋषयः तेषां प्रथमोऽयास्य एतन्नामा च त एत इह युश्मदीये स्थान आ गमन्। आगच्छेयुः। गमेश्चन्दसि लुङ् लङ् लिटि इति सार्वकालिको लुङ्। लृदित्त्वाच्च्लेरङ्। आगत्य च ते गोनाम्। गोः पादान्त इति च्छन्दसि नुदागमः। गवामूर्वं तं समूहं वि भजन्त। विभागम् कुर्युः। अत्रापि पूर्ववत्सार्वकालिको लुङ्। अथानन्तरं पणयो यूयमेतद्वचः पूर्वं यद्व्यर्थमागतासिति यद्वाक्यमवोचत तद्वाक्यं तदा वमन्निद्वमन्तः परित्यजन्त एव भवथ। वमु उद्गिरणे। शतरि सुपां सुलुगिति जसो लुक्। नुमागमः। संयोगान्तस्य लोपः। यद्वा। लङि रूपम्। स्वरश्छान्दसः॥८॥