इन्द्र॒ः किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।
आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥
इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।
आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥
अस्यास्मदीयस्य स्तोत्रस्य श्रुत्यै शवणायेन्द्रः किलेन्द्र एव वेद। जानाति। स हि स एव जिष्णुः शत्रूणां जयशीलः सूर्याय पथिकृन्मार्गकर्ता भवति। किञ्चाच्युतः। शत्रुभिरगन्तव्यो वृषणश्वस्य मेनामात्मानं कृण्वन् कुर्वन् इन्द्र आत्। आगच्छत्यस्मदीयं यज्ञम् । मेनाभवो वृषनश्वस्य सुक्रतो। ऋ. १-५१-१३। इति मन्त्रान्तरम्। अस गतिदीप्त्यादानेषु भौवादिकः। .....। दिवो द्युलोकस्य च पतिर्भवत्। अभूत्। भवतेर्लेट्। वाक्यभेदादनिघतः॥३॥