वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।
वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥
वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः ।
वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒हुऽओ॑जाः ॥
हे इन्द्र वृत्रहा वृत्रस्य हन्ता वज्रेण वृत्रमस्तः। अस्तृणाः। अवधीः। स्तृणातेर्लङि बहुलम् । छन्दसीति विकरणस्य लुक्। सिपि गुणः। हियोगादनिघातः। अनन्तरं हे धृष्णो धर्षनशील त्वमदेवस्याद्योतमानस्य शूशुवानस्य स्वबलेन वर्धमानस्य तस्य माया धृषता समर्थेन वज्रेणात्रास्मिन्काल एव वि जघन्थ। विनाशितवानसि। हन्तेर्लिटि थल्यभ्यासाच्चेति कुत्वम्। अथ हे मघवन्धनवन्निन्द्र बाह्वोजा भुजबलवानभवः॥६॥