यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।
तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥
हे इन्द्र इमे मही महतौ रोदसी द्यावापृथिव्यौ यस्य ते तव सोमपानेन जनितेषु मदेषु सम्भूतं त्यत्तं महिमानं नाविविक्तां न पृथक्कुरुतः किन्तु यस्य महिम्न्येव तिष्ठतः। विचिर् पृथग्भावे जौहोत्यादिकः। लङि संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुनाभावः। यद्योगादनिघातः। प्रियेभिः प्रियतमै रथे युक्तैर्हरिभिरश्वैः प्रियं प्रीणनकरमन्नं सोमलक्षनमच्छाभिलक्ष्य तदोकोऽस्मदीयं यज्ञसदनमा याहि। आगच्छ॥४॥