विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।
र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥
विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते॒ । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ ।
र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥
हे इन्द्र अध वृत्रहननानन्तरं विश्वे देवासो देवा ऋत्विजः सोमवत्या सोमयुक्तया वचस्यया स्तुतीच्छया ते त्वदीयानि वृष्ण्यानि बलान्यवर्धयन्। वर्धयन्ति। इन्द्रस्य हन्मना हननसाधनेन वज्रेन रद्धम्। रध हिंसासंराद्ध्योः। हिंसितमहिं वृत्रमपामावरकं मेघं तृषु शीघ्रमन्नमावयत्। अभक्षयत्। तज्जन्येनोदकेन सम्पादितमन्नं जनोऽभक्षयदित्यर्थः। आवयतिरत्तिकर्मा। तत्र दृष्टान्तः। अग्निर्न यथाग्निर्जम्भैरात्मीयैर्दन्तैरन्नं भक्षयति तद्वत्॥८॥