गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥
गृ॒हः । या॒मि॒ । अर॑म्ऽकृतः । दे॒वेभ्यः॑ । ह॒व्य॒ऽवाह॑नः ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
गृहो हविषाम् ग्रहीतारं कृतो यजमानैरलङ्कृतोऽहम् देवेभ्य इन्द्रादिभ्यो हव्यवाहनो हविषाम् वोढा प्रापयिताग्न्यात्मा सन्यामि। हवींषि प्रापयामि। या प्रापने। लिट्। हव्येऽनन्तःपादमिति वहेर्ञ्युट्। ञित्त्वादाद्युदात्तः। समासे कृदुत्तरपदप्रकृतिस्वरः। इति यस्मात्कुविद्बहुवारम् सोमस्य सोममपां पीतवानस्मि। तस्मादेतान्यकार्षमितीन्द्रः स्वात्मानमेवास्तावीत्॥१३॥
वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये
अष्टमाष्टके षष्ठोऽध्यायः समाप्तः॥