अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥
अदे॑वात् । दे॒वः । प्र॒ऽचता॑ । गुहा॑ । यन् । प्र॒ऽपश्य॑मानः । अ॒मृ॒त॒ऽत्वम् । ए॒मि॒ ।
शि॒वम् । यत् । सन्त॑म् । अशि॑वः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णीम् । नाभि॑म् । ए॒मि॒ ॥
अदेवाददेवनशीलाद्गुहा गुहायां वर्तमानात्। सुपां सुलुगिति सप्तम्यालुक्। प्रचता देवानां प्रयाचनेन हेतुना यन् निर्गच्छन् देवो देवनशीलोऽहं प्रपश्यमानो दैवैर्मदर्थं कल्पितं प्रयाजानुयाजादिलक्षणं हविर्भागं प्रपश्यमानो निरीक्षमाणः सन्नम्रुतत्वमेमि। मरणधर्मराहित्यं देवत्वं प्राप्नोमि। दृशेर्व्यत्ययेनात्मनेपदम्। हविर्वहनाध्भीतः पलायितोऽबादिषु स्थानेषु निगूढः पुर्नर्देवैर्हविर्वहनाय प्रार्थ्यमानस्तैर्दत्तेन हैव्शाहं देवत्वं प्राप्तवानस्मीत्यर्थः। यद्यप्यहं गुहातो निर्गत्य प्रकाशमानः सञ्योभवनं यज्ञम् निर्वर्तयामि तथापि शिवं शोभनं सन्तं भवन्तं यज्ञमशिवोऽशोभनरूपोऽप्रकाशमानः सन् यद्यस्मिन्समाप्तिकाले जहामि परित्यजामि तदानीं नाभिं नहनशीलां बन्धनशीलामरणिमश्वत्थमेव स्वात्सख्यादात्मीयात्सखित्वाच्चिरकालमश्वरूपोऽहं तत्र न्यवात्समिति स्नेहवशादेमि। प्राप्नोमि॥२॥