मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२५, ऋक् ४

संहिता

मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥

पदपाठः

मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।
अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥

सायणभाष्यम्

योन्नमत्ति स भोक्तृशक्तिरूपया मयैवान्नमत्ति। यश्च विपश्यति। आलोकयतीत्यर्थः। यश्च प्राणिति श्वासोच्छोस्वादिव्यापारं करोति सोऽपि मयैव। यश्चोक्तं शृणोति। श्रु श्रवणे। श्रुवः शृ चेति श्रुधातोः शृभावः। य ईदृशीमन्तर्यामिरूपेण स्थितां मां न जानन्ति तेऽमन्तवोऽमन्यमाना अजानन्त उपक्षियन्ति। उपक्षीणाः संसारेण हीना भवन्ति। मनेरौणादिकस्तुप्रत्ययः। नञ्समासे व्यत्ययेनान्तोदात्तत्वम्। यद्वा। भावे त्य्प्रत्ययः। ततो बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं माममन्तवो मद्विषयज्ञानरहिता इत्यर्थः। हे श्रुत विश्रुत सखे श्रुधि। मया वक्ष्यमाणं शृणु। छान्दसो विकरणस्य लुक्। श्रुशृणुपॄकृवृभ्य इति हेर्धिभावः। किं तच्छ्रोतव्यम् । त्रद्दिवम् । श्रद्धिः श्रद्धा। तया युक्तम् । श्रद्धायत्नेन लभ्यमित्यर्थः। श्रदन्तरोरुपसर्गवद्वृत्तिरिष्यते। पा. १-४-५७-२। इति श्रच्छब्दस्योपसर्गवद्वर्तमानात्वादुपसर्गे घोः किरिति किप्रत्ययः। मत्वर्थीयोपः। ईदृशं ब्रह्मात्मकं वस्तु ते तुभ्यं वदामि। उपदिशामि॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११