ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ ।
मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥
ममाग्न इति नवर्चं षोडशं सूक्तमाङ्गिरसस्य विहव्यस्यार्षम् वैश्वदेवम्। अन्त्या जगती शिष्टास्त्रिष्टुभः। अनुक्रम्यते हि। ममाग्ने नव विहव्यो वैश्वदेवं जगत्यन्तमिति। संसवे निमित्तभूते वैश्वदेवसूक्तस्य पुरस्तादेतच्छंस्यम् । सूत्रितं च। ममाग्ने वर्च इति वैश्वदेवसूक्तस्यापि वैतेष्वेव निविदो दध्यात्। आ. ६-६-। इति। समावर्तनेऽनेन सूक्तेन सिष्णासुना प्रत्यृचं समिदाधातव्या। सूत्रितम् च। ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात्। आ. गृ. ३-९-२। इति॥
हे अग्ने। विविधमाहूयन्ते येषु शूरा इति विहवाः सङ्ग्रामाः। यद्वा। विविधं यागार्थं देवा आहूयन्त एष्विति विहवा यज्ञाः। ह्वः सम्प्रसारनं च न्यभ्युपविषु। पा. ३-३-७२। इत्यधिकरणेऽप् सम्प्रसारणं च। थाथादिनोत्तरपदान्तोदात्तत्वम्। सङ्ग्रामेषु यज्ञेषु वा वर्चो दीप्तिस्त्वदनुग्रहान्ममास्तु। भवतु। वयं च त्वा त्वामिन्धनाः समिद्भिर्दीपयन्तस्तन्वं तव शरीरं पुषेम। हविर्भिर्वर्धयेम। इन्धेः शानचि श्नसोरल्लोप उदात्त निवृत्तिस्वरेण शानच आद्युदात्तत्वे प्राप्ते विभाषा वेण्वन्धानयोः। पा. ६-१-२१५। इत्याद्युदात्तत्वम्। तन्वं पुषेम। पुषेर्लिङि लिङ्याशिष्यङ्। अपि च मह्यं मदर्थम् । ङयि चेत्यस्मद आद्युदात्तत्वम्। चतस्रः प्रदिशः प्रकृष्टा दिशः। तद्वासिनो जना इत्यर्थः। नमन्ताम्। स्वत एव प्रह्वीभवन्तु। नमतेः कर्मकर्तरि लोटि न दुह्स्नुनमामिति यक्प्रतिषेधः। त्वयास्माभिर्हविर्भिः प्रवर्धितेनाध्यक्षेणेश्वरेण सता पृतनाः शत्रुसेना जयेम । अभिभवेम॥१॥