धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥
धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् ।
इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥
धातॄणां स्रष्टॄणामपि धाता स्रष्टा भुवनस्य कृत्स्नस्य भूतजातस्य य इन्द्रः सविता वा पतिः पालयिता तं देवं देवनशीलं त्रातारं सर्वेभो भयेभ्यः पालयितारमभिमातिषाहमभिमातीनां शत्रूणां सोड्य्हारमभिभवितारं एवंगुणविशिष्टमिन्द्रं सवितारं वा स्त्ॐईति शेषः। षह अभिभवे। छन्दसि सह इति ण्विप्रत्ययः। छान्दसं विभक्त्युदात्तत्वम्। उभोभावश्विनौ बृहस्पतिश्चैतत्प्रमुखाः सर्वे देवा इमं यज्ञमनुष्ठीयमानं यजमानं च न्यर्थान्निकृष्टादर्थात्पापात्। यद्वा। अर्थस्य प्रयोजनस्याभावो न्यर्थम् । तस्मात्पान्तु। रक्षन्तु। सफलं कुर्वन्त्वित्यर्थः। नेरनिधाने। पा. ६-२-१९२। इत्युत्तरपदान्तोदात्तत्वम्॥७॥