पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒ः काव्यै॑र्दं॒सना॑भिः ।
यत्सु॒रामं॒ व्यपि॑ब॒ः शची॑भि॒ः सर॑स्वती त्वा मघवन्नभिष्णक् ॥
पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः ।
यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥
पूर्वोक्तानामेव ग्रहाणां पुत्रमिवेति याज्या। सूत्रितं च। पुत्रमिव पितरावश्विनोभेति याज्या। आ. ३-९। इति।
हे इन्द्र त्वां पितरौ माता पितरौ पुत्रमिव। पिता मात्रा। पा. १-२-७०। इति पितुः शेशः। उभोभावश्विनौ काव्यैः प्रशस्यैर्दंसनाभिरात्मीयैः कर्मभिरावथुः। मध्यमो व्यत्ययेन । आवतुः। ररक्षतुः। त्वं च सुरामं सुखेन रमणसाधनं हविर्यद्यदा शचीभिः शक्तिभिः सार्धं व्यपिबः विशेषेण पीतवानसि तदा हे मघवन्धनवन्निन्द्र सरस्वती देवी त्वा त्वामभिष्णक्। उपासेवत। भिष्णक् उपसेवायाम्। कण्ड्वादिः। छान्दसो युगभावः। लङि बहुलं छन्दसीति शपो लुक्। हल् ङ्याब्भ्य इति लोपः॥५॥