यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति ।
अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
यः । नः॒ । इ॒न्द्र॒ । अ॒भितः॑ । जनः॑ । वृ॒क॒ऽयुः । आ॒ऽदिदे॑शति ।
अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒ऽबा॒धः । अ॒सि॒ । स॒स॒हिः । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥
हे इन्द्र यो जनो व्रुकायुः । वृको हिंसकोऽरण्यश्वा स्तेनो वा। स इवाचरन्नोऽस्मानभितः सर्वत आदिदेशति अभिलक्ष्यायुधान्यतिसृजति। दिअहतेर्लेट्यडागमः। छान्दसः शपः श्लुः। नाभ्यस्तस्याचि पितीत्यत्र बहुलं छन्दसीति वक्तव्यमिति वचनात्प्रतिषेधाभावे लघूपधगुणः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तमीं तमिमं जनमधस्पदं पादस्याधस्ताद्वर्तमानं क्रुधि। कुरु। करोतेश्छान्दसो विकरणस्य लुक् श्रुशृणुपृकृवृभ्य इति हेर्धिः। यतस्त्वं विबाधो विशेषेण बाधिता शत्रूणां सासहिरभिभविता चासि। सिद्धः शेषः॥४॥