आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।
दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः ।
दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥
हे स्तोतः त्वा त्वाम् शन्तातिभिः सुखकरैरथो अपि चारिष्टतातिभिरहिंसाकरैश्च रक्शनैरागमम्। आगतवानस्मि। शिवशमरिष्टस्य करे। पा. ४-४-१४३। इत्युभयत्र तातिल्प्रत्ययः। लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। अपि च भद्रं कल्याणं ते तव दक्षम् बलमभार्षम्। आहार्षम्। वायुसकाशादानैषम्। तथा ते तव यक्ष्मं रोगम् च परा सुवामि। विनाशयामि॥४॥