सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
सू॒र्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् ।
तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥
सूर्यरश्मिरिति षडृचमेकादशं सूक्तं त्रैष्टुभम्। विश्वावसुर्नाम गन्धर्वऋषिः। स च पूर्वेण तृचेन सवितारम् स्तुतवान् उत्तरेण स्वात्मानम्। अतः प्रथमतृचस्य सविता देवता द्वितीयस्य गन्धर्वः। तथा चानुक्रान्तम्। सूर्यरश्मिर्देवगन्धर्वो विश्वावसुरात्मानमस्तौत्पूर्वार्धे सवितारमिति। गतो विनियोगः॥
सूर्यरश्मिः। उषसः प्रादुर्भावानन्तरं सूर्यस्योदयात्पूर्वं यः कालस्तस्य कालस्याभिमानी देवः सवितेत्युच्यते। सूर्यरश्मिः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिरेव रश्मिर्यस्य स तथोक्तः हरिकेशः हरयो हरणशीला हरितवर्णा वा केशाः केशस्थानीयाः प्रकाशमाना वा दीप्तयो यस्य ईदृशः सविता सर्वस्य प्रेरको देवः पुरस्तात्पूर्वस्यां दिश्यजस्रमनवरतं ज्योतिस्तेज उदयान्। उद्याति। उद्गमयति। यातेरन्तर्भावितण्यर्थाच्छान्दसो लङ्। व्यत्ययेन बहु वचनम्। संहितायां दीर्घादटि समानपाद इति नकारस्य रुत्वम्। आतोऽट नित्यमिति सानुनासिक आकारः। तस्य सवितुः प्रसवे प्रेरणेऽनुज्ञायां सत्यां विद्वाञ्जानन्गोपा गोपयिता रक्षिता पूषा पोषको देव आदित्यो याति। नभसि गच्छति। किं कुर्वन्। विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि सम्पश्यन्। सम्यक् प्रकाशयन्॥१॥