मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३९, ऋक् २

संहिता

नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥

पदपाठः

नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।
सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥

सायणभाष्यम्

नृचक्षा नॄन्मनुष्यान्पश्यन् यद्वा नृभिर्नेतृभी रश्मिभिः प्रकाशमान एष सविता दिवो द्युलोकस्य मध्य आस्ते। निषीदति। किं कुर्वन्। रोदसी द्यावापृथिव्यावन्तरिक्षं चापप्रिवान् स्वतेजसापूरयन्। प्रा पूरणे। अस्माच्छान्दसो लिट्। क्वसुश्चेति तस्य क्वसुरादेशः। वस्वेकाजाद्घसामितीडागमः। स देवो विश्वाचीर्विश्वमञ्चन्तीः सर्वव्यापिनीः प्राच्यादिमहादिशोऽभि चष्टे। प्रकाशयति। तथा घृताचीर्घृतं दीप्तं रूपमञ्चन्तीराग्नेय्यादिविशश्च प्रकाशयति। अञ्चतेः क्विनन्तादञ्चतेश्चोपसङ्ख्यानमिति ङीप्। ततो भसंज्ञायामच इत्याकारलोपे चाविति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते चाविति पुर्वस्याच उदात्तत्वम्। तथा पूर्वं पूर्वभागं केतुं प्रज्ञापनीयपरं पृष्ठभाग्गं चान्तरान्तरालं चाभि चष्टे। प्रकाशयति॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७