ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒ः सूर्ये॑ण सह्याः ।
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥
ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ।
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥
हे शूर शौर्यवन्निन्द्र ऋष्वो महान्दर्शनीयो वा त्वं जातो जातमात्र एव दासीः। उपक्शयकारिणो दासा असुराः। तत्संबन्धिनीर्विशः प्रजाः सूर्येण सूर्यात्मना सह्याः। अभ्यभवः। तथा गुहा गुहायां हितं निहितं आत एव गुह्यमदृश्यं वलख्यमसुरमप्सूदकेषु गूधं निगूढं कयवाख्यं च त्वमभिभुतवानसि। वयमपि प्रस्रवणे प्रवर्षणे सति। नः सम्प्रत्यर्थे। सम्प्रति सोमं बिभृमसि। त्वदर्थं बिभृमः। धारयामः॥२॥