तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि ।
त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या॑जय॒ः स्व॑ः ॥
तुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ ।
त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊं॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्व१॒॑रिति॑ स्वः॑ ॥
तुभ्येदमिति चतुरृचं षोडशं सूक्तं विश्वामित्रजमदग्न्योरार्षं जागतमैन्द्रम्। सोमस्य राज्ञ इत्येष तृतीया वरुनविधात्रनुमतिधातृसोमब्रुहस्पतीतिलिङ्गोक्तदेवताका। तथा चानुक्रान्तम्। तुभ्येदं चतुष्कं विश्वामित्रजमदग्नी जागतं तृतीया लिङ्गोक्तदेवता वेति। पक्ष इन्द्र एव देवतान्ये तु निपातभाज इति वाशब्दस्यार्थः। गतो विनियोगः॥
हे इन्द्र इदं मधु सोमलक्षनम् तुभ्यं त्वदर्थं परि षिच्यते। आहवनीये प्रक्षिप्यते। त्वमेव सुतस्याभिषुतस्य कलशस्य द्रोणकलशावस्थितस्य सोमस्य राजसि। ईशिषे। राजतिरैश्वर्यकर्मा। स त्वं नोऽस्माकं पुरुवीरां बहुपुत्रं रयिं धनं कृधि। कुरु। उशब्दः पूरकः। यद्वा। अवधारणे। बहुपुत्रोपेतमेव धनं कुरु नःकेवलमित्यर्थः। तथा त्वं तपः शतसङ्ख्याश्वमेधलक्षनं परितप्यानुष्ठाय स्वः स्वर्गमजयः। जितवानसि॥१॥