आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्व॑ः ॥
आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः ।
पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१॒॑रिति॑ स्वः॑ ॥
आयं गौरिति तृचमष्टात्रिंशं सूक्तं गायत्रम्। सार्पराज्ञी नामर्षिका। सैव देवता सूर्यो वेति। तथा चानुक्रान्तम्। आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वेति। अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शम्सनीयम्। सूत्रितं च। आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा। आ. ८-१३। इति॥
गौर्गमनशीलः पृश्निः प्राष्टवर्णः प्राप्ततेजसा अयं सूर्य आक्रमीत्। अक्रान्तवान्। उदयाचलं प्राप्तवानित्यर्थः। आक्रम्य च पुरः पुरस्तात्पूर्वस्यां दिशि मातरं सर्वभूतजातस्य निर्मात्रीं पृथिवीमसदत्। आसीदति। प्रप्नोति। सदेश्छान्दसो लुङ्। लृदित्त्वाच्च्लेरङादेशः। ततः पितरं पालकं द्युलोकम्। चशब्दादन्तरिक्षं च प्रयन् प्रकर्षेन शीघ्रं गच्छन् स्वः स्वरणः शोभनगमनो भवति। यद्वा। पितरं स्वर्गलोकं प्रयन्वर्तते॥१॥